श्री नृसिंहकवचस्तोत्रम्-ब्रह्मसंहितायाम्।।

Nrisimha Kavacham
Nrisimha Kavacham

अथ श्री नृसिंहकवचस्तोत्रम् – ब्रह्मसंहितायां वर्णितम्।। Nrisimha Kavacham from Brahma Samhita.

मित्रों, आज हम भगवान नृसिंह के अति दुर्लभ कवच का वर्णन करने जा रहे हैं, जिसे बहुत पहले प्रह्लाद जी ने स्तुति के रूप में किया था, यथा – नृसिंहकवचं वक्ष्ये प्रह्लादेनोदितं पुरा । यह कवच हर प्रकार से मनुष्य की रक्षा करता है, हर प्रकार के पुण्यों को प्रदान करता है तथा सभी उपद्रवों से रक्षा करता है । यथा – सर्वरक्षाकरं पुण्यं सर्वोपद्रवनाशनम् ॥१॥

इस कवच का पाठ करनेवाला व्यक्ति हर प्रकार की सम्पति एवं सुखों का उपभोग करके स्वर्ग और मोक्ष तक दे देता है । यथा – सर्व सम्पत्करं चैव स्वर्गमोक्षप्रदायकम् । भगवान नृसिंह का ध्यान करते हुये, कि जो स्वर्ण सिंहासन पर विराजमान है और अपनी करुणा भरी दृष्टि से हमें निहार रहे हैं । यथा – ध्यात्वा नृसिंहं देवेशं हेमसिंहासनस्थितम् ॥२॥

मित्रों, इस कवच के पाठ से व्यक्ति अपने जीवन से मुक्त हो जाता है तथा त्रिलोकी में एक स्थान प्राप्त करके त्रिलोकी को जीतने का सामर्थ्य प्राप्त कर लेता है । यथा – त्रैलोक्य क्षोभयत्येव त्रैलोक्यं विजयी भवेत् ॥२४॥ सबसे महत्वपूर्ण बात ये है, कि जो उपरी हवा से जैसे – भूत-प्रेत-पिशाच-राक्षस-दानव आदि के प्रकोप से त्रस्त है उसे इन सब से सहज ही मुक्ति मिल जाती है ।।

यथा – भूतप्रेतपिशाचाश्च राक्षसा दानवश्च ये ।
तं दृष्ट्वा प्रपलायन्ते देशाद्देशान्तरं ध्रुवम् ॥२५॥

इस कवच की सिद्धि होने के बाद इसे लिखकर यन्त्र में स्थापित करके पुरुष कंठ में अथवा दाहिनी भूजा में धारण करके स्वयं नरसिंह भगवान जैसा बन जाता है । यथा – भूर्जे विलिख्य गुटिकाम् स्वर्णस्थाम् धारयेत् यदि । कण्ठे वा दक्षिणे बाहौ नरसिंहो भवेत् स्वयम् ॥२१॥

मित्रों, यदि कोई स्त्री अपनी बायीं भूजा में धारण करे तो सर्वसिद्धियों से होकर बन्ध्या, काकबन्ध्या, मृतवत्सा, नष्टपुत्रा एवं यहाँ तक कि जन्मना बन्ध्या नारी भी बहुत पुत्रों वाली पुत्रवती हो जाती है । यथा – काकबन्ध्या च या नारी मृतवत्सा च या भवेत् । जन्मबन्ध्या नष्टपुत्रा बहुपुत्रवती भवेत् ॥२३॥

अथ श्री नृसिंहकवचस्तोत्रम् आरभ्यते ।।

नारद उवाच:-

इन्द्रादिदेव वृन्देश तातेश्वर जगत्पते ।
महाविष्णोर्नृसिंहस्य कवचं ब्रुहि मे प्रभो
यस्य प्रपठनाद् विद्वान् त्रैलोक्यविजयी भवेत् ॥ १॥

ब्रह्मोवाच:-

शृणु नारद वक्ष्यामि पुत्रश्रेष्ठ तपोघन(तपोधन) ।
कवचं नरसिंहस्य त्रैलोक्यविजयाभिधम् ॥ २॥

यस्य प्रपठनाद् वाग्मी त्रैलोक्यविजयी भवेत् ।
स्रष्ठाऽहं जगतां वत्स पठनाद्धारणाद् यतः ॥ ३॥

लक्ष्मीर्जगत्त्रयम् पाति संहर्ता च महेश्वरः ।
पठनाद्धारणाद्देवा बभुवुश्च दिगीश्वराः ॥ ४॥
ब्रह्म मन्त्रमयं वक्ष्ये भूतादिविनिवारकम् ।
यस्य प्रसादाद्दुर्वासास्त्रैलोक्यविजयी मुनिः ।
पठनाद् धारणाद् यस्य शास्ता च क्रोधभैरवः ॥ ५॥

त्रैलोक्यविजयस्यास्य कवचस्य प्रजापतिः ।
ऋषिश्छन्दश्च गायत्री नृसिंह देवता विभुः ।
चतुर्वर्गे च शान्तौ च विनियोगः प्रकीर्त्तितः ॥ ६॥

क्ष्रौं बिजं मे शिरः पातु चन्द्रवर्णो महामनुः ।
उग्रवीरं महाविष्णुं ज्वलन्तः सर्वतोमुखम् ।
नृसिंहं भीषणं भद्रं मृत्योर्मृत्युं नमाम्यहम् ॥ ७॥

द्वात्रिंशादक्षरो मन्त्रः मन्त्रराजः सुरद्रुमः ।
कण्ठं पातु ध्रुवम् क्ष्रौं हृद्भगवते चक्षुषी मम ॥ ८॥

नरसिंहाय च ज्वालामालिने पातु मस्तकम् ।
दीप्तदंष्ट्राय च तथाग्निनेत्राय च नासिकाम् ॥ ९॥

सर्वरक्षोघ्नाय देवाय सर्वभूतविनाशाय च ।
सर्वज्वरविनाशाय दह दह पच द्वयम् ॥ १०॥

रक्ष रक्ष सर्वमन्त्रम् स्वाहा पातु मुखं मम ।
तारादि रामचन्द्राय नमः पायाद्गूह्यं मम ॥ ११॥

क्लीं पायात्पाणियुग्मंश्च तक्रम् नमः पदम् ततः ।
नरायणाऽप्रसवम् च आं ह्रीं क्रौं क्ष्रौं चं हुं फट् ॥ १२॥

षडक्षरः कटिं पातु ॐ नमो भगवते पदम् ।
वासुदेवाय च पृष्ठं क्लीं कृष्णाय उरुद्वयम् ॥ १३॥

क्लीं कृष्णाय सदा पातु जानुनी च मनूत्तमः ।
क्लीं ग्लौं क्लीं श्यामलाङ्गाय नमः पायात्पदद्वयम् ॥ १४॥

क्ष्रौं नरसिंहाय क्ष्रौंश्च सर्वाङ्गं मे सदाऽवतु ॥ १५॥

इति ते कथितं वत्स सर्वमन्त्रौघ विग्रहम् ।
तवस्नेहान्मया ख्यातं प्रवक्तव्यं न कस्यचित् ॥ १६॥

गुरुपूजा विधायाथ गृहणीयात् कवचं ततः ।
सर्वपुण्ययुतो भूत्वा सर्वसिद्धियुतो भवेत् ॥ १७॥

शतमष्टोत्तरं चैव पुरश्चर्याविधि स्मृतः ।
हवनादीन् दशांशेन कृत्वा साधकसत्तमः ॥ १८॥

ततस्तु सिद्ध कवचः पुण्यात्मा मदनोपमः ।
स्पर्द्धामुद्धय भवने लक्ष्मीर्वाणी वसेत् ततः ॥ १९॥

पुष्पाञ्जल्याष्टकम् दत्वामूले नैव पठेत् सकृत् ।
अपि वर्षसहस्राणाम् पूजायाः फलमाप्नुयात् ॥ २०॥

भूर्जे विलिख्य गुटिकाम् स्वर्णस्थाम् धारयेत् यदि ।
कण्ठे वा दक्षिणे बाहौ नरसिंहो भवेत् स्वयम् ॥ २१॥

योषिद्वामभुजे चैव पुरुषो दक्षिणे करे ।
विभृयात् कवचं पुण्यम् सर्वसिद्धियुतो भवेत् ॥२२॥

काकबन्ध्या च या नारी मृतवत्सा च या भवेत् ।
जन्मबन्ध्या नष्टपुत्रा बहुपुत्रवती भवेत् ॥ २३॥

कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः ।
त्रैलोक्य क्षोभयत्येव त्रैलोक्यं विजयी भवेत् ॥ २४॥

भूतप्रेतपिशाचाश्च राक्षसा दानवश्च ये ।
तं दृष्ट्वा प्रपलायन्ते देशाद्देशान्तरं ध्रुवम् ॥ २५॥

यस्मिन् गेहे च कवचं ग्रामे वा यदि तिष्ठति ।
तं देशन्तु परित्यज प्रयान्ति चाति दूरतः ॥ २६॥

।। इति श्रीब्रह्मसंहितायां सप्तदशाध्याये त्रैलोक्यविजयं नाम श्री श्रीनृसिंहकवचं सम्पूर्णम् ।।

संपर्क करें:- बालाजी ज्योतिष केन्द्र, गायत्री मंदिर के बाजु में, मेन रोड़, मन्दिर फलिया, आमली, सिलवासा ।।

WhatsAap & Call: +91 – 8690 522 111.
E-Mail :: [email protected]

।।। नारायण नारायण ।।।

LEAVE A REPLY

Please enter your comment!
Please enter your name here