अन्नपूर्णा कवचम्।। Annapurna Kavacham.
द्वात्रिंशद्वर्णमन्त्रोऽयं शङ्करप्रतिभाषितः।
अन्नपूर्णा महाविद्या सर्वमन्त्रोत्तमोत्तमा॥१॥
पूर्वमुत्तरमुच्चार्य सम्पुटीकरणमुत्तमम्।
स्तोत्रमन्त्रस्य ऋषिर्ब्रह्मा छन्दो त्रिष्टुबुदाहृतः॥२॥
देवता अन्नपूर्णा च ह्रीं बीजमम्बिका स्मृता।
स्वाहा शक्तिरिति ज्ञेयं भगवति कीलकं मतम्॥३॥
धर्माऽर्थ-काम-मोक्षेषु विनियोग उदाहृतः।
ॐ ह्रीं भगवति माहेश्वरि अन्नपूर्णायै स्वाहा।
सप्तार्णवमनुष्याणां जपमन्त्रः समाहितः॥४॥
अन्नपूर्णे इमं मन्त्रं मनुसप्तदशाक्षरम्।
सर्व सम्पत्प्रदो नित्यं सर्वविश्वकरी तथा॥५॥
भुवनेश्वरीति विख्याता सर्वाऽभीष्टं प्रयच्छति।
हृल्लेखेयमिति ज्ञेयमोङ्काराक्षररूपिणी॥६॥
कान्ति-पुष्टि-धना-ऽऽरोग्य यशांसि लभते श्रियम्।
अस्मिन् मन्त्रे रतो नित्यं वशयेदखिलं जगत्॥७॥
अङ्गन्यासः- ॐ अस्य श्रीअन्नपूर्णामालामन्त्रस्य ब्रह्मा ऋषये
नमः शिरसि। ॐ अन्नपूर्णादेवतायै नमः हृदये। ॐ ह्रीं बीजाय नमः
नाभौ। ॐ स्वाहा शक्तये नमः पादयोः। ॐ धर्मा-ऽर्थ-काम-मोक्षेषु
विनियोगाय नमः सर्वाङ्गे।।.
करन्यासः- ॐ ह्रां अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं तर्जनीभ्यां
नमः । ॐ ह्रँ मध्यमाभ्यां नमः । ॐ ह्रैं अनामिकाभ्यां नमः ।
ॐ ह्रीं कनिष्ठिकाभ्यां नमः । ॐ ह्रः करतलकरपृष्ठाभ्यां नमः ।
हृदयादिन्यासः -ॐ ह्रां हृदयाय नमः । ॐ ह्रीं शिरसे
स्वाहा । ॐ इह शिखायै वषट् । ॐ ह्रैं कवचाय हुम् । ॐ ह्रौं
नेत्रत्रयाय वौषट् । ॐ ह्रः अस्त्राय फट्।।
ध्यानम्:- रक्तां विचित्रवसनां नवचन्द्रचूडां
अन्नप्रदान-निरतां स्तनभारनम्राम् ।
नृत्यन्तमिन्दु सकलाभरणं विलोक्य
हृष्टां भजे भगवतीं भव-दुःख-हन्त्रीम्।।
मालामत्रः -ॐ ऐं ह्रीं श्रीं क्लीं नमो भगवति माहेश्वरि अन्नपूर्णे ! ममाऽभिलषितमन्नं देहि स्वाहा।।
ॐ ऐं ह्रीं श्रीं क्लीं मन्दार-कल्प-हरिचन्दन-पारिजात-मध्ये शशाङ्क-मणिमण्डित-वेदिसंस्थे। अर्धेन्दु-मौलि-सुललाट-षडर्धनेत्रे भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यं क्लीं श्रीं ह्रीं ऐं ॐ॥१॥
ॐ ऐं ह्रीं श्रीं क्लीं केयूर-हार-कनकाङ्गदकर्णपूरे काञ्चीकलाप-मणिकान्ति-लसद्दुकूले । दुग्धा-ऽन्नपात्र-वर-काञ्चन-दर्विहस्ते भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यम् ॐ क्लीं श्री ह्रीं ऐं ॐ॥२॥
ॐ ऐं ह्रीं श्रीं क्लीं आली कदम्बपरिसेवित-पार्श्वभागे शक्रादिभिर्मुकुलिताञ्जलिभिः पुरस्तात् । देवि! त्वदीयचरणौ शरणं प्रपद्ये भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यं ॐ क्लीं श्रीं ह्रीं ऐं ॐ॥३॥
ॐ ऐं ह्रीं श्रीं क्लीं गन्धर्व-देवऋषि-नारद-कौशिकाऽत्रि-व्यासाऽम्वरीष-कलशोद्भव-कश्यपाद्याः। भक्त्या स्तुवन्ति निगमा-ऽऽगम-सूक्त-मन्त्रैर्भिक्षा प्रदेहि गिरिजे! क्षुधिताय मह्यं क्लीं ॐ श्रीं ह्रीं ऐं ॐ॥४॥
ॐ ऐं ह्रीं श्रीं क्लीं लीलावचांसि तव देवि! ऋगादिवेदाः सृष्ट्यादिकर्मरचना भवदीयचेष्टा। त्वत्तेजसा जगदिदं प्रतिभाति नित्यं भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यं क्लीं श्रीं ह्रीं ऐं ॐ॥५॥
ॐ ऐं ह्रीं श्रीं क्लीं शब्दात्मिके शशिकलाभरणार्धदेहे शम्भो-रुरस्थल-निकेतननित्यवासे। दारिद्र्य-दुःखभयहारिणि का त्वदन्या भिक्षां प्रदेहि गिरिजे ! क्षुधिताय मह्यं क्लीं श्रीं ऐं ॐ॥६॥
ॐ ऐं ह्रीं श्रीं क्लीं सन्ध्यात्रये सकलभूसुरसेव्यमाने स्वाहा स्वधासि पितृदेवगणार्तिहन्त्री। जाया सुताः परिजनातिथयोऽन्नकामाः भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यं क्लीं श्रीं ह्रीं ऐं ॐ॥७॥
ॐ ऐं ह्रीं श्रीं क्लीं सद्भक्तकल्पलतिके भुवनं कवन्द्ये भूतेश-हृत्कमलमग्न-कुचाग्रभृङ्गे। कारुण्यपूर्णनयने किमुपेक्षसे मां भिक्षां प्रदेहि गिरजे क्षुधिताय मह्यं क्लीं श्रीं ह्रीं ऐं ॐ॥८॥
ॐ ऐं ह्रीं श्रीं क्लीं अम्ब! त्वदीय-चरणाम्बुज-संश्रयेण ब्रह्मादयोऽप्यविकलां श्रियमाश्रयन्ते । तस्मादहं तव नतोऽस्मि पदारविन्देभिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यं क्लीं श्रीं ह्रीं ऐं ॐ ॥ ९॥
ॐ ऐं ह्रीं श्रीं क्लीं एकाग्रमूलनिलयस्य महेश्वरस्य प्राणेश्वरि! प्रणत-भक्तजनाय शीघ्रम् । कामाक्षि-रक्षित-जगत्-त्रितयेऽन्नपूर्णे भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यं क्लीं श्रीं ह्रीं ऐं ॐ ॥ १०॥
ॐ ऐं ह्रीं श्रीं क्लीं भक्त्या पठन्ति गिरिजादशकं प्रभाते मोक्षार्थिनो बहुजनाः प्रथितान्नकामाः । प्रीता महेशवनिता हिमशैल-कन्या तेषां ददाति सुतरां मनसेप्सितानि क्लीं श्रीं ह्रीं ऐं ॐ॥११॥
।। इति श्रीशङ्कराचार्यविरचितमन्नपूर्णाकवचं समाप्तम्।।
ज्योतिष के सभी पहलू पर विस्तृत समझाकर बताया गया बहुत सा हमारा विडियो हमारे YouTube के चैनल पर देखें । इस लिंक पर क्लिक करके हमारे सभी विडियोज को देख सकते हैं – Click Here & Watch My YouTube Channel.
इस तरह की अन्य बहुत सारी जानकारियों, ज्योतिष के बहुत से लेख, टिप्स & ट्रिक्स पढने के लिये हमारे ब्लॉग एवं वेबसाइट पर जायें तथा हमारे फेसबुक पेज को अवश्य लाइक करें, प्लीज – My facebook Page.
वास्तु विजिटिंग के लिये तथा अपनी कुण्डली दिखाकर उचित सलाह लेने एवं अपनी कुण्डली बनवाने अथवा किसी विशिष्ट मनोकामना की पूर्ति के लिए संपर्क करें ।।

