Home Vishnu Stotram ॐ नमो नारायणाय अष्टाक्षरमाहात्म्यम्।।

ॐ नमो नारायणाय अष्टाक्षरमाहात्म्यम्।।

Om Namo Narayanaya Ashtakshara Mahatmya
Om Namo Narayanaya Ashtakshara Mahatmya

ॐ नमो नारायणाय अष्टाक्षरमाहात्म्यम्।। Om Namo Narayanaya Ashtakshara Mahatmya.

श्रीशुक उवाच:- किं जपन् मुच्यते तात सततं विष्णुतत्परः।
संसारदुःखात् सर्वेषां हिताय वद मे पितः॥१॥

व्यास उवाच:- अष्टाक्षरं प्रवक्ष्यामि मन्त्राणां मन्त्रमुत्तमम्।
यं जपन् मुच्यते मर्त्यो जन्मसंसारबन्धनात्॥२॥

हृत्पुण्डरीकमध्यस्थं शङ्खचक्रगदाधरम्।
एकाग्रमनसा ध्यात्वा विष्णुं कुर्याज्जपं द्विजः॥३॥

एकान्ते निर्जनस्थाने विष्णवग्रे वा जलान्तिके।
जपेदष्टाक्षरं मन्त्रं चित्ते विष्णुं निधाय वै॥४॥

अष्टाक्षरस्य मन्त्रस्य ऋषिर्नारायणः स्वयम्।
छन्दश्च दैवी गायत्री परमात्मा च देवता॥५॥

शुक्लवर्णं च ॐकारं नकारं रक्तमुच्यते।
मोकारं वर्णतः कृष्णं नाकारं रक्तमुच्यते॥६॥

राकारं कुङ्कुमाभं तु यकारं पीतमुच्यते।
णाकारमञ्जनाभं तु यकारं बहुवर्णकम्॥७॥

ॐ नमो नारायणायेति मन्त्रः सर्वार्थसाधकः।
भक्तानां जपतां तात स्वर्गमोक्षफलप्रदः।
वेदानां प्रणवेनैष सिद्धो मन्त्रः सनातनः॥८॥

सर्वपापहरः श्रीमान् सर्वमन्त्रेषु चोत्तमः।
एनमष्टाक्षरं मन्त्रं जपन्नारायणं स्मरेत्॥९॥

संध्यावसाने सततं सर्वपापैः प्रमुच्यते।
एष एव परो मन्त्र एष एव परं तपः॥१०॥

एष एव परो मोक्ष एष स्वर्ग उदाहृतः।
सर्ववेदरहस्येभ्यः सार एष समुद्धॄतः॥११॥

विष्णुना वैष्णवानां हि हिताय मनुजां पुरा।
एवं ज्ञात्वा ततो विप्रो ह्यष्टाक्षरमिमं स्मरेत्॥१२॥

स्नात्वा शुचिः शुचौ देशे जपेत् पापविशुद्धये।
जपे दाने च होमे च गमने ध्यानपर्वसु॥१३॥

जपेन्नारायणं मन्त्रं कर्मपूर्वे परे तथा।
जपेत्सहस्रं नियुतं शुचिर्भूत्वा समाहितः॥१४॥

मासि मासि तु द्वादश्यां विष्णुभक्तो द्विजोत्तमः।
स्नात्वा शुचिर्जपेद्यस्तु नमो नारायणं शतम्॥१५॥

स गच्छेत् परमं देवं नारायणमनामयम्।
गन्धपुष्पादिभिर्विष्णुमनेनाराध्य यो जपेत्॥१६॥

महापातकयुक्तोऽपि मुच्यते नात्र संशयः।
हृदि कृत्वा हरिं देवं मन्त्रमेनं तु यो जपेत्॥१७॥

सर्वपापविशुद्धात्मा स गच्छेत् परमां गतिम्।
प्रथमेन तु लक्षेण आत्मशुद्धिर्भविष्यति॥१८॥

द्वितीयेन तु लक्षेण मनुसिद्धिमवाप्नुयात्।
तृतीयेन तु लक्षेण स्वर्गलोकमवाप्नुयात्॥१९॥

चतुर्थेन तु लक्षेण हरेः सामीप्यमाप्नुयात्।
पञ्चमेन तु लक्षेण निर्मलं ज्ञानमाप्नुयात्॥२०॥

तथा षष्ठेन लक्षेण भवेद्विष्णौ स्थिरा मतिः।
सप्तमेन तु लक्षेण स्वरूपं प्रतिपद्यते॥२१॥

अष्टमेन तु लक्षेण निर्वाणमधिगच्छति।
स्वस्वधर्मसमायुक्तो जपं कुर्याद् द्विजोत्तमः॥२२॥

एतत् सिद्धिकरं मन्त्रमष्टाक्षरमतन्द्रितः।
दुःस्वप्नासुरपैशाचा उरगा ब्रह्मराक्षसाः॥२३॥

जापिनं नोपसर्पन्ति चौरक्षुद्राधयस्तथा।
एकाग्रमनसाव्यग्रो विष्णुभक्तो दृढव्रतः॥२४॥

जपेन्नारायणं मन्त्रमेतन्मृत्युभयापहम्।
मन्त्राणां परमो मन्त्रो देवतानां च दैवतम्॥२५॥

गुह्यानां परमं गुह्यमोंकाराद्यक्षराष्टकम्।
आयुष्यं धनपुत्रांश्च पशून् विद्यां महद्यशः॥२६॥

धर्मार्थकाममोक्षांश्च लभते च जपन्नरः।
एतत् सत्यं च धर्म्यं च वेदश्रुतिनिदर्शनात्॥२७॥

एतत् सिद्धिकरं नृणां मन्त्ररूपं न संशयः।
ऋषयः पितरो देवाः सिद्धास्त्वसुरराक्षसाः॥२८॥

एतदेव परं जप्त्वा परां सिद्धिमितो गताः।
ज्ञात्वा यस्त्वात्मनः कालं शास्त्रान्तरविधानतः।
अन्तकाले जपन्नेति तद्विष्णोः परमं पदम्॥२९॥

नारायणाय नम इत्ययमेव सत्यं, संसारघोरविषसंहरणाय मन्त्रः।
श‍ृण्वन्तु भव्यमतयो मुदितास्त्वरागा, उच्चैस्तरामुपदिशाम्यहमूर्ध्वबाहुः॥३०॥

भूत्वोर्ध्वबाहुरद्याहं सत्यपूर्वं ब्रवीम्यहम्।
हे पुत्र शिष्याः श‍ृणुत न मन्त्रोऽष्टाक्षरात्परः॥३१॥

सत्यं सत्यं पुनः सत्यमुत्क्षिप्य भुजमुच्यते।
वेदाच्छास्त्रं परं नास्ति न देवः केशवात् परः॥३२॥

आलोच्य सर्वशास्त्राणि विचार्य च पुनः पुनः।
इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा॥३३॥

इत्येतत् सकलं प्रोक्तं शिष्याणां तव पुण्यदम्।
कथाश्च विविधाः प्रोक्ता मया भज जनार्दनम्॥३४॥

अष्टाक्षरमिमं मन्त्रं सर्वदुःखविनाशनम्।
जप पुत्र महाबुद्धे यदि सिद्धिमभीप्ससि॥३५॥

इदं स्तवं व्यासमुखात्तु निस्सृतं, संध्यात्रये ये पुरुषाः पठन्ति।
ते धौतपाण्डुरपटा इव राजहंसाः, संसारसागरमपेतभयास्तरन्ति॥३६॥

इति श्रीनरसिंहपुराणे अष्टाक्षरमाहात्म्यं नाम सप्तदशोऽध्यायः॥१७॥

ज्योतिष के सभी पहलू पर विस्तृत समझाकर बताया गया बहुत सा हमारा विडियो हमारे  YouTube के चैनल पर देखें । इस लिंक पर क्लिक करके हमारे सभी विडियोज को देख सकते हैं – Click Here & Watch My YouTube Channel.

इस तरह की अन्य बहुत सारी जानकारियों, ज्योतिष के बहुत से लेख, टिप्स & ट्रिक्स पढने के लिये हमारे ब्लॉग एवं वेबसाइट पर जायें तथा हमारे फेसबुक पेज को अवश्य लाइक करें, प्लीज – My facebook Page.

वास्तु विजिटिंग के लिये तथा अपनी कुण्डली दिखाकर उचित सलाह लेने एवं अपनी कुण्डली बनवाने अथवा किसी विशिष्ट मनोकामना की पूर्ति के लिए संपर्क करें ।।

किसी भी तरह के पूजा-पाठ, विधी-विधान, ग्रह दोष शान्ति आदि के लिए तथा बड़े से बड़े अनुष्ठान हेतु योग्य एवं विद्वान् ब्राह्मण हमारे यहाँ उपलब्ध हैं ।।
 
संपर्क करें:- बालाजी ज्योतिष केन्द्र, गायत्री मंदिर के बाजु में, मेन रोड़, मन्दिर फलिया, आमली, सिलवासा ।।
 
WhatsAap & Call: +91 – 8690 522 111.
E-Mail :: astroclassess@gmail.com

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

error: Content is protected !!
Exit mobile version