श्रीतीव्रचण्डिकास्तोत्रम् अथवा श्रीमार्कण्डेयपुराणोक्त चण्डिकास्तोत्रम्।। Tivra Chandika Stotram
॥ अथ ध्यानम्॥
चामुण्डा प्रेतगा विकृता चाऽहि भूषणा,
दंष्ट्रालि क्षीणदेहा च गर्ताक्षी कामरूपिणी।
दिग्बाहुः क्षामकुक्षि मुशलं चक्रचामरे,
अङ्कुशं विभ्रती खड्गं दक्श्ःइणे चाथ वामके॥
या देवी खड्गहस्ता सकलजनपदव्यापिनी विश्वदुर्गा,
श्यामाङ्गी शुक्लपाशा द्विजगणगणिता ब्रह्मदेहार्थवासा।
ज्ञानानां साधयन्ती यतिगिरिगमनज्ञान दिव्य प्रबोधा,
सा देवी दिव्यमूर्तिः प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा॥१॥
ॐ ह्रां ह्रीं ह्रूं चर्ममुण्डे शवगमनहते भीषणे भीमवक्त्रे,
क्रां क्रीं क्रूं क्रोधमूर्तिर्भिः कृतस्तवमुखे रौद्रदंष्ट्राङ्कराले।
कं कं कं कालरात्रिः भ्रमसि जगदिदं भक्षयन्ती ग्रसन्ती,
हूङ्कारोच्चारयन्ती प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा॥२॥
ॐ ह्रां ह्रीं ह्रूं रुद्ररूपे त्रिभुवननमिते पाशहस्ते त्रिनीत्रे,
रां रीं रूं रङ्गरङ्गे किलिकिलितरवे शूलहस्ते प्रचण्डे।
लां लीं लूं लम्बजिह्वे हसति कहकहाशुद्ध घोराट्टहासैः,
कं काली कालरात्रिः प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा॥३॥
ॐ घ्रां घ्रीं घ्रूं घोररूपे घघघघ घटितैर्घर्घुरारावघोरे,
निर्मांसी शुष्कजङ्घे पिबतु नरवसा धूम्रधूम्रायमाने।
ॐ द्रां द्रीं द्रूं द्रावयन्ती सकलभुवि तथा यक्षगन्धर्वनागैः,
क्षां क्षीं क्षूं क्षोभयन्ती प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा॥४॥
ॐ भ्रां भ्रीं भ्रूं चण्डवर्गे हरिहरनमिते रुद्रमूर्तिश्च कीर्तिः,
चन्द्रादित्यौ च कर्णौ जडमकुटशिरोवेष्टितां केतुमाला।
स्रक्सर्वौ चोरगेन्द्रौ शशिकिरणनिभा तारको हार कण्ठे,
सा देवी दिव्यमूर्तिः प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा॥५॥
ॐ खं खं खं गवस्ते वरकनकनिभे सूर्यकान्ति स्वतेजः,
विद्युज्ज्वालावलीनां नवनिशितमहाकृत्तिका दक्षिणेन।
वामे हस्ते कपालं वरविमलसुरापूरितं धारयन्ती,
सा देवी दिव्यमूर्तिः प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा॥६॥
ॐ हुं हुं हुं फट् कालरात्रिः उरु (रु रु) सुरमथिनी धूम्रमारी कुमारी,
ह्रां ह्रीं ह्रूं हत्तिशोरौक्षपितिकिलिकिला शब्द अट्टाट्टहासे।
हा हा भूत प्रभूते किलिकिलितमुखा कीलयन्ती ग्रसन्ती,
हूङ्कारोच्चारयन्ती प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा॥७॥
ॐ भृङ्गी कालीकपाली परिजनसहिते चण्डिचामुण्डनित्या,
रों रों रोङ्कारनित्ये शशिकरधवले कालकूटे दुरन्ते।
ह्रुं ह्रुं ह्रुङ्कारकारी सुरगणनमिते कालकारी विकारी,
त्र्यैलोक्यं वश्यकारी प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा॥८॥
ॐ वन्दे दण्डप्रचण्डा डमरुमणिमारणष्टोपटङ्कारघण्टै,
नृत्यन्ती याट्टपातैः रटपट विभवैर्निर्मला मन्त्रमाला।
शुष्के कुक्षे वहन्ती खरखरितसखा चार्चिनी प्रेतमाला,
उच्चैशैत्याट्टहासैः घरुघरितरवा त्वं चण्डमुण्डा प्रचण्डा॥९॥
ॐ त्वं ब्राह्मी त्वं च रौद्री त्वं सच शिकगमना त्वं च देवी कुमारी,
त्वं चक्रे चक्रहस्ता घरुघरितरवा त्वं वराहस्वरूपा।
रौद्रे त्वं चर्ममुण्डा सकलभुवितले संस्थिते सर्वमार्गे,
पाताले शैलशृङ्गे हरिहरनमिते देवी चण्डी नमस्ते॥१०॥
ॐ रक्षत्वं मुङ्डधारी गिरिगुहविहरे निर्झरे पर्वते वा,
सङ्ग्रामे शत्रुमध्ये विशविशभविते सङ्कटे कुत्सिते वा।
व्याघ्रे चौरे च सर्वेप्युः दधिभुवितले तथा वह्निमध्ये दुर्गे,
रक्षेत्वां दिव्यमूर्तिः प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा॥११॥
इत्येवं बीजमन्त्रैः स्तवनमति शिवं पातकं व्याधिनाशं,
प्रत्यक्षं दिव्यरूपं ग्रहगणमथनं मर्दनं शाकिनीनाम्।
इत्येवं वेगवेगं सकलभयहरं मन्त्रमूर्तिश्च नित्यं,
मन्त्राणां स्तोत्रकं यः पठति स लभतौ प्रार्थितां मन्त्रसिद्धिम्॥१२॥
ॐ नमश्चण्डिकायै नमश्चण्डिकायै नमश्चण्डिकायै।।
॥ श्रीरागमालिकाकृते तीव्रचण्डिकास्तोत्रं अथवा श्रीमार्कण्डेयपुराणोक्त चण्डिकास्तोत्रं सम्पूर्णम्॥
