अथ श्रीगणेशाष्टोत्तरशतनाम स्तोत्रम्।। Ganesha Ashtottarashatanama Stotram.
– शिवपार्वतीसंवादे –
श्रीशिव उवाच –
काश्यां तु बहवो विघ्नाः काशीवासवियोजकाः।
तच्छान्त्यर्थं दुण्ढिराजः पूजनीयः प्रयत्नतः॥५०॥
अष्टोत्तरशतं दिव्यैर्गणेशस्यैव नामभिः।
कर्तव्यमतियत्नेन नवदूर्वाङ्कुरार्पणम्॥५१॥
हिरण्मयतनुं शुद्धं सर्वार्तिहरमव्ययम्।
वरदं गणपं ध्यात्वा पूजा कार्या प्रयत्नतः॥५२॥
ऋषिर्विघ्नेश इत्यादिनाम्नां सर्वेश्वरः शिवः।
देवता विघ्नराजोऽत्र छन्दोऽनुष्टुप् शुभप्रदम्॥५३॥
सर्वप्रत्यूहशमनं फलं शक्तिः सुधात्मिका।
कीलकं गणनाथस्य पूजा कार्येति कामदा॥५४॥
अथ नामावलिः।
ॐ विघ्नेशो विश्ववरदो विश्वचक्षुर्जगत्पतिः।
हिरण्यरूपः सर्वात्मा ज्ञानरूपो जगन्मयः॥५५॥
सर्वज्ञः सर्वगः शान्तो गजास्यो विगतज्वरः।
विश्वमूर्तिरमेयात्मा विश्वाधारः सनातनः॥५६॥
सामगानप्रियो मन्त्री सत्त्वाधारः सुराधिपः।
समस्तसाक्षी निर्द्वन्द्वो निर्लिप्तोऽमोघविक्रमः॥५७॥
नियतो निर्मलः पुण्यकामदः कान्तिदः कविः॥५८॥
कामरूपी कामवेषो कमलाक्षः कलाधरः।
सुमुखः सर्वदः शुद्धो मूषिकाधिपवाहनः॥५९॥
दीर्घतुण्डघनुः श्रीमाननन्तो मोहवर्जितः।
वक्रतुण्डः शूर्पकर्णो परमं पावनेश्वरः॥६०॥
योगीशो योगवन्द्याङ्घ्रिरुमाजनुरयापहः।
एकदन्तो महाग्रीवः शरण्यः सिद्धसेवितः॥६१॥
सिद्धिदः करुणासिन्धुः भगवान् भव्यविग्रहः।
विकटः कपिलो ढुण्ढिरुग्रो भीमोदरः शुभः॥६२॥
गणाध्यक्षो गणाराध्यो गणेशो गणनायकः।
ज्योतिःस्वरूपो भूतात्मा धूमकेतुरनाकुलः॥६३॥
कुमारगुरुरानन्दो हेरम्बो वेदसंस्तुतः।
नागोपवीती दुर्धर्षो बालदूर्वाङ्कुरप्रियः॥६४॥
भालचन्द्रो विश्वधामा शिवपुत्रो विनायकः।
लीलावलम्बितवपुः पूर्णः परमसुन्दरः॥६५॥
विघ्नान्धकारमार्ताण्डो विघ्नारण्यदवानलः।
सिन्धूरवदनो नित्यो विष्णुः प्रथमपूजितः॥६६॥
शरण्यदिव्यपादाब्जो भक्तमन्दारभूरुहः।
रत्नसिह्मासनासीनो मणिकुण्डलमण्डितः॥६७॥
भक्तकल्याणदोऽमेयः कल्याणगुणसंश्रयः।
एतानि दिव्यनामानि गणेशस्य महात्मनः॥६८॥
पठनीयानि यत्नेन सर्वदा सर्वदेहिभिः।
नाम्नामेकैकमेतेषां सर्वसिद्धिप्रदायकम्॥६९॥
अथ उपदेशः:-
सर्वविघ्नेश नाम्नां तु फलं वक्तुं न शक्यते।
एकैकमेव तन्नाम दिव्यं जप्त्वा मुनीश्वराः॥७०॥
प्रत्यूहमात्ररहितास्तिष्ठन्ति शिवपूजकाः।
दूर्वायुग्मानि सङ्गृह्य नूतनान्यतियत्नतः॥७१॥
पूजनीयो गणाध्यक्षो नाम्नामेकैकसङ्ख्यया।
नभस्यशुक्लपक्षस्य चतुर्थ्यां विधिपूर्वकम्॥७२॥
वक्रतुण्डेशकुण्डे तु स्नानं कृत्वा प्रयत्नतः।
वक्रतुण्डेशमाराध्य सर्वाभीष्टप्रदायकम्॥७३॥
ध्यायेदघहरं शुद्धकाञ्चनाभमनामयम्।
ततः पूजां यथाशास्त्रं कृत्वा दूर्वाङ्कुरैर्नवः॥७४॥
पूजा कार्या विशेषेण नामोच्चारणपूर्वकम्।
ततश्च मोदकैदिव्यैः सुगन्धिघृतपाचितैः॥७५॥
नैवेद्यं कल्पयेद्दिव्यंः गणेशाय शुभावहम्।
अन्यैश्च परमान्नाद्यैर्भक्ष्यैर्भोज्यैर्मनोहरैः॥७६॥
तोषणीयः प्रयत्नेन वक्रतुण्डविनायकः।
प्रदक्षिणनमस्कारैर्दिव्यैस्तन्नामसङ्ख्यया॥७७॥
कर्तव्या नियतं शुद्धैर्मौनव्रतपरायणः।
ततः सन्तर्प्य विधिच्छैवान्ब्राह्मणसम्भवान्॥७८॥
पुनरभ्यर्च्य विघ्नेशमिमं मन्त्रमुदीरयेत्॥७९॥
अथ मन्त्रः:-
वक्रतुण्ड सुराराध्य सूर्यकोटिसमप्रभ।
निर्विघ्नेनैव सततं काशीवासं प्रयच्छ मे॥८०॥
इति सम्प्रार्थ्य विधिवत्पूजां कृत्वा पुनर्मुदा।
नमस्कृत्वा प्रसाद्यैनं गच्छेड्ढुण्ढिविनायकम्॥८१॥
ढुण्ढिराजार्चनं सम्यक्कर्तव्यं विधिपूर्वकम्।
तत्रैवार्चाविशेषेण पूजां कृत्वा ततः परम्॥८२॥
॥ इति शिवरहस्यान्तर्गते गणेशाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्॥
– ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः १२ । ५०-८२॥
ज्योतिष के सभी पहलू पर विस्तृत समझाकर बताया गया बहुत सा हमारा विडियो हमारे YouTube के चैनल पर देखें । इस लिंक पर क्लिक करके हमारे सभी विडियोज को देख सकते हैं – Click Here & Watch My YouTube Channel.
इस तरह की अन्य बहुत सारी जानकारियों, ज्योतिष के बहुत से लेख, टिप्स & ट्रिक्स पढने के लिये हमारे ब्लॉग एवं वेबसाइट पर जायें तथा हमारे फेसबुक पेज को अवश्य लाइक करें, प्लीज – My facebook Page.
वास्तु विजिटिंग के लिये तथा अपनी कुण्डली दिखाकर उचित सलाह लेने एवं अपनी कुण्डली बनवाने अथवा किसी विशिष्ट मनोकामना की पूर्ति के लिए संपर्क करें ।।

