HomeStotramलक्ष्मी की वर्षा करवाने वाला नारायण स्तोत्र।।

लक्ष्मी की वर्षा करवाने वाला नारायण स्तोत्र।।

माँ लक्ष्मी की कृपा वर्षा करवाने वाला नारायण स्तोत्र ।। Narayana Stuti by Brahmadeva in Narasinha Purana.

मित्रों, माँ लक्ष्मी की कृपा वर्षा करवाने वाला ब्रह्मा जी के द्वारा किया गया ये स्तोत्र नरसिंह पुराण में वर्णित है। इस स्तोत्र का परायण रविवार को सुबह-सुबह भगवान सूर्य को सूर्यार्घ देकर फिर भगवान नारायण की ऐसी प्रतिमा जिसमें माँ लक्ष्मी भगवान का पैर दबा रही हों, उसकी पूजा करके करना चाहिए।।

ब्रह्मोक्तं श्रीमन्नारायण स्तुति: (नरसिंहपुराणे) ।। 

नारद उवाच:-

किं तञ्ज्ञानं परं देव कश्च योगः परस्तथा ।
एतन्मे तत्त्वतः सर्वं त्वमाचक्ष्व पितामह ॥ ५९॥

ब्रह्मोवाच:-

यः परः प्रकृतेः प्रोक्तः पुरुषः पञ्चविंशकः ।
स एव सर्वभूतानां नर इत्यभिधीयते ॥ ६०॥

नराज्जातानि तत्त्वानि नाराणीति ततो विदुः ।
तान्येव चायनं तस्य तेन नारायणः स्म्ऱृतः ॥ ६१॥

नारायणाज्जगत्सर्वं सर्गकाले प्रजायते ।
तस्मिन्नेव पुनस्तच्च प्रलये सम्प्रलीयते ॥ ६२॥

नारायणः परं ब्रह्म तत्त्वं नारायणः परम् ।
नारायणः परं ज्योतिरात्मा नारायणः परः ॥ ६३॥

परादपि परश्चासौ तस्मान्नातिपरं मुने ।
यच्च किञ्चिज्जगत्यस्मिन् द्ऱृश्यते श्रूयतेऽपि वा ॥ ६४॥

अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ।
एवं विदित्वा तं देवाः साकारं व्याहरन्मुहुः ॥ ६५॥

नमो नारायणायेति ध्यात्वा चानन्यमानसाः ।
किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः ॥ ६६॥

यो नित्यं ध्यायते देवं नारायणमनन्यधीः ।
एतञ्ज्ञानं वरं नातो योगश्चैव परस्तथा ॥ ६७॥

परस्परविरुद्धार्थैः किमन्यैः शास्त्रविस्तरैः ।
बहवोऽपि यथा मार्गा विशन्त्येकं महत्पुरम् ॥ ६८॥

तथा ज्ञानानि सर्वाणि प्रविशन्ति तमीश्वरम् ।
स हि सर्वगतो देवः सूक्ष्मोऽव्यक्तः सनातनः ॥ ६९॥

जगदादिरनाद्यन्तः स्वयम्भूर्भूतभावनः ।
विष्णुर्विभुरचित्न्यात्मा नित्यः सदसदात्मकः ॥ ७०॥

वासुदेवो जगद्वासः पुराणः कविरव्ययः ।
यस्मात्प्राप्तं स्थितिं कृत्स्नं त्रैलोक्यं सचराचरम् ॥ ७१॥

तस्मात् स भगवान्देवो विष्णुरित्यभिधीयते ।
यस्माद्वा सर्वभूतानां तत्त्वाद्यानां युगक्षये ॥ ७२॥

तस्मिन्निवासः संसर्गे वासुदेवस्ततस्तु सः ।
तमाहुः पुरुषं केचित्केचिदीश्वरमव्ययम् ॥ ७३॥

विज्ञानमात्रं केचिच्च केचिद्ब्रह्म परं तथा ।
केचित्कालमनाद्यन्तं केचिज्जीवं सनातनम् ॥ ७४॥

केचिच्च परमात्मानं केचिच्चैवमनामयम् ।
केचित्क्षेत्रज्ञमित्याहुः केचित्षड्विंशकं तथा ॥ ७५॥

अङ्गुष्ठमात्रं केचिच्च केचित्पद्मरजोपमम् ।
एते चान्ये च मुनिभिः सञ्ज्ञाभेदाः पृथग्विधाः ॥ ७६॥

शास्त्रेषु कथिता विष्णोर्लोकव्यामोहकारकाः।
एकं यदि भवेच्छास्त्रं ज्ञानं निस्संशयं भवेत् ॥ ७७॥

बहुत्वादिह शास्त्राणां ज्ञानतत्त्वं सुदुर्लभम् ।
आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः ॥ ७८॥

इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ।
त्यक्त्वा व्यामोहकान् सर्वान् तस्माच्छास्त्रार्थविस्तरान् ॥ ७९॥

अनन्यचेता ध्यायस्व नारायणमतन्द्रितः ।
एवं ज्ञात्वा तु सततं देवदेवं तमव्ययम् ॥ ८०॥

क्षिप्रं यास्यसि तत्रैव सायुज्यं नात्र संशयः ।
श्रुत्वेदं ब्रह्मणा प्रोक्तं ज्ञानयोगं सुदुर्लभम् ॥ ८१॥

ततोऽहमासं विप्रेन्द्र नारायणपरायणः ।
नमो नारायणायेति ये विदुर्ब्रह्म शाश्वतम् ॥ ८२॥

अन्तकाले जपन्तस्ते यान्ति विष्णोः परं पदम् ।
तस्मान्नारायणस्तात परमात्मा सनातनः ॥ ८३॥

अनन्यमनसा नित्यं ध्येयस्तत्त्वविचिन्तकैः ।
नारायणो जगद्व्यापी परमात्मा सनातनः ॥ ८४॥

जगतां सृष्टिसंहारपरिपालनतत्परः ।
श्रवणात्पठनाच्चैव निदिध्यासनतत्परैः ॥ ८५॥

आराध्यः सर्वथा ब्रह्मन् पुरुषेण हितैषिणा ।
निःस्पृहा नित्यसन्तुष्टा ज्ञानिनः संयतेन्द्रियाः ॥ ८६॥

निर्ममा निरहङ्कारा रागद्वेषविवर्जिताः ।
अपक्षपतिताः शान्ताः सर्वसङ्कल्पवर्जिताः ॥ ८७॥

ध्यानयोगपरा ब्रह्मन् ते पश्यन्ति जगत्पतिम् ।
त्यक्तत्रया महात्मानो वासुदेवं हरिं गुरुम् ॥ ८८॥

कीर्तयन्ति जगन्नाथं ते पश्यन्ति जगत्पतिम् ।
तस्मात्त्वमपि विप्रेन्द्र नारायणपरो भव ॥ ८९॥

तदन्यः को महोदारः प्रार्थितं दातुमीश्वरः ।
हेलया कीर्तितो यो वै स्वं पदं दिशति द्विज ॥ ९०॥

अपि कार्यस्त्वया चैव जपः स्वाध्याय एव च ।
तमेवोद्दिश्य देवेशं कुरु नित्यमतन्द्रितः ॥ ९१॥

किं तत्र बहुभिर्मन्त्रैः किं तत्र बहुभिर्व्रतैः ।
नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥ ९२॥

चीरवासा जटाधारी त्रिदण्डी मुण्ड एव वा ।
भूषितो वा द्विजश्रेष्ठ न लिङ्गं धर्मकारणम् ॥ ९३॥

ये नृशंसा दुरात्मानः पापाचाररताः सदा ।
तेऽपि यान्ति परं स्थानं नरा नारायणाश्रयाः ॥ ९४॥

जन्मान्तरसहस्रेषु यस्य स्यद्बुद्धिरीद्ऱृशी ।
दासोऽहं वासुदेवस्य देवदेवस्य शार्ङ्गिनः ॥ ९५॥

प्रयाति विष्णुसालोक्यं पुरुषो नात्र संशयः ।
किं पुनस्तद्गतपुराणः पुरुषः संयतेन्द्रियः ॥ ९६॥

।। इति नरसिंहपुराणे ।। (अध्याय ६४ श्लोक ५९-९६.)

ज्योतिष के सभी पहलू पर विस्तृत समझाकर बताया गया बहुत सा हमारा विडियो हमारे  YouTube के चैनल पर देखें । इस लिंक पर क्लिक करके हमारे सभी विडियोज को देख सकते हैं – Click Here & Watch My YouTube Channel.

इस तरह की अन्य बहुत सारी जानकारियों, ज्योतिष के बहुत से लेख, टिप्स & ट्रिक्स पढने के लिये हमारे ब्लॉग एवं वेबसाइट पर जायें तथा हमारे फेसबुक पेज को अवश्य लाइक करें, प्लीज – My facebook Page.

वास्तु विजिटिंग के लिये तथा अपनी कुण्डली दिखाकर उचित सलाह लेने एवं अपनी कुण्डली बनवाने अथवा किसी विशिष्ट मनोकामना की पूर्ति के लिए संपर्क करें ।।

किसी भी तरह के पूजा-पाठ, विधी-विधान, ग्रह दोष शान्ति आदि के लिए तथा बड़े से बड़े अनुष्ठान हेतु योग्य एवं विद्वान् ब्राह्मण हमारे यहाँ उपलब्ध हैं ।।

सिलवासा ऑफिस:- बालाजी ज्योतिष केन्द्र, गायत्री मंदिर के बाजु में, मेन रोड़, मन्दिर फलिया, आमली, सिलवासा।।

प्रतिदिन सिलवासा में मिलने का समय:

10:30 AM to 01:30 PM And 05: PM 08:30 PM

WhatsAap & Call: +91 – 8690 522 111.
E-Mail :: balajijyotish11@gmail.com 

Balaji Jyotish Kendra
Balaji Jyotish Kendrahttp://balajijyotish.com
Balaji Jyotish Kendra par Vedic Astrology, Kundli Analysis, Horoscope Reading aur Astro Remedies step-by-step. Online astrology classes, practical training aur expert guidance ke saath apni jyotish knowledge ko professional level tak Pahuchaye. Contact Us.
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments